SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 166 // सयोगाः- संसारिणः, अयोगा- अयोगिनः सिद्धाश्च 4, वेदे त्ति सवेदाः- संसारिणः, अवेदा- अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च 5, कसाय त्ति, सकषायाः- सूक्ष्मसम्परायान्ताः, अकषायाः- उपशान्तमोहादयश्चत्वारः सिद्धाश्च , लेसा यत्ति सलेश्याः- सयोग्यन्ताःसंसारिणः, अलेश्या- अयोगिनः सिद्धाश्च 7, नाणेत्ति ज्ञानिनः- सम्यग्दृष्टयोऽज्ञानिनोमिथ्यादृष्टयः, आह च-अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं / मइअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव // 1 // (विशेषाव 114) इति, अज्ञानताच मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि-सन्त्याः , इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते- सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चिदिति विशेषितव्यं भवति, पररूपेणेत्यर्थः, सतुन सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयम्, यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि(वा) न सन्तीति, तदेवंसदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च-जह दुव्वयणमवयणं कुच्छियसीलं असीलमसतीए / भण्णइ तह णाणपि हु मिच्छद्दिहिस्स अन्नाणं॥१॥ (विशेषाव० 520) इति, तथा मिथ्यादृष्टेरध्यवसायो न ज्ञानम्, भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सत्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह च- सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ। णाणफलाभावाओ 0 अविशेषिता मतिरेव समयग्दृष्टेः सा मतिज्ञानं मिथ्यादृष्टेमत्यज्ञानं श्रुतमप्येवमेव // 1 // O यथा दुर्वचनमवचनं कुत्सितं शीलमशीलं असत्याः। भण्यते यथा तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानमेव // 1 // 0 सदसदविशेषणाद्भवहेतुतो यादृच्छिकोपलम्भात् / ज्ञानफलाभावाच्च मिथ्यादृष्टेरज्ञानम् // 1 // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 100-101 आत्मपरप्रतिष्ठिताः क्रोधादयः, संसारसमापन्न-जीवाः, सर्वजीवानां सिद्धेन्द्रियकायादिभिर्दू विध्यम्, (मिथ्यादृष्टेरज्ञानम्) // 166 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy