SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 163 // द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 99 पल्योपमसागरोपमस्वरूपम यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः, तच्च द्विधा-पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमम्, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानांवालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभि यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्खयेयभागमात्रसूक्ष्मपनकावगाहनाऽसङ्घयातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमम्, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्घयायन्ते, आह च- उद्धारसागराणं अड्डाइजाण जत्तिया समया। दुगुणादुगुण-8 पवित्थर दीवोदहि रज्जु एवइया॥१॥(बृहत्क्षेत्र० 1/3) इति, अद्धापल्योपमसागरोपमे अपिसूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते 2 वालस्य वालासङ्खयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उद्धियन्ते स कालो व्यावहारिके ते पल्योपमसागरोपमे, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्धियन्ते स काल: सूक्ष्मे ते, एते च प्ररूपणामात्रविषये एव, दृष्टिवादे तु स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति उद्धारसागरोपमयोः सार्द्धद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रज्जुः // 1 // ॐ सूक्ष्म इति, एते....एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्ट० (मु०)। सूक्ष्मे ते, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्ट० (प्र०)। // 13 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy