SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 161 // स्पादि तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेणवि त्ति सव्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा द्वितीयमध्ययन सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः- सर्वं शरीरं द्विस्थानम्, स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति / स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह- एव मित्यादि, एव मिति तथैव देशेन चतुर्थोद्देशकः सूत्रम् 97 आत्मदेशेन शरीरकं फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण- सर्वात्मना स्फुटं कृत्वा देश सर्वाभ्यां गेन्दुकगताविति, अथवा शरीरकं देशतः- सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः- सर्वाङ्गनिर्याणप्रस्तावरइति, अथवा फुडित्ता-स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्वविशरणेन देवदीपादिजीववदिति। शरीरं सात्मकतया स्फुटीकुर्वंस्तत्संवर्त्तनमपि कश्चित्करोतीत्याह- एव मित्यादि, एव मिति तथैव संवट्टइत्ताणं ति संवर्त्यसङ्कोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानांशरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्य- हस्तादिसङ्कोचनेन सर्वतः- सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति / आत्मनश्च संवर्त्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह- एवं निव्वदृयित्ताणं ति, तथैव निवर्त्यजीवप्रदेशेभ्यः शरीरकं पृथक्कृत्येत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतो, अथवा देशतः शरीरकं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरं- औदारिकादि निवर्त्य , // 161 // तैजसकार्मणे त्वादायैव, तथा सर्वेण- सर्वं शरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः / अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy