SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 160 // सर्वाभ्यां स्पर्शादि (उप०माला १२९)ति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः / उक्तस्थानद्वयबद्धपापकर्मणश्च द्वितीयमध्ययन यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह- जीवे त्यादि गतार्थम्, नवरमुदीरयन्ति- अप्राप्तावसरं सदुदये। द्विस्थानम्, चतुर्थोद्देशकः प्रवेशयन्ति, अभ्युपगमेन-अङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनया सूत्रम् 97 पीडया उपक्रमेण-कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया, एव मिति उक्तप्रकारत न देशएव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितं सदिति, निर्जरयन्ति प्रदेशेभ्यः शाटयन्तीति / निर्जरणे च कर्मणो देशतः सर्वथा शरीरवा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह दोहिं ठाणेहिं आता सरीरंफुसित्ताणं णिज्जाति, तं०- देसेणवि आता सरीरं फुसित्ताणं णिज्जाति सव्वेणवि आया सरीरगंफुसित्ताणं णिजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निव्वदृतित्ता / / सूत्रम् 97 / / दोही त्यादिकं कण्ठ्यम्, नवरं द्वाभ्यां प्रकाराभ्यां देसेणवि त्ति देशेनापि-कतिपयप्रदेशलक्षणेन केषाश्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीरादहिः क्षिप्तत्वात्, आत्मा जीवः, शरीरं देहं स्पृष्ट्वा श्लिष्ट्वा निर्याति शरीरान्मरणकाले निःसरतीति, सव्वेणवि त्ति सर्वेण- सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरम्, कोऽर्थः?- शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निति, सच संसारी, सर्वेणापि सर्वतयाऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, सच सिद्धो, वक्ष्यति च-पायणिज्जाणा णिरएसु उववज्जती त्यादि,यावत् सव्वंगणिज्जाणा सिद्धेसु (सू० ४६१)त्ति / आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते- एव मित्यादि, एव मिति दोहिं ठाणेही त्याद्यभिलापसंसूचनार्थः, // 160 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy