SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाज श्रीअभय० वृत्तियुतम् भाग-१ // 159 // मोहनीयकर्मपुद्गलराशेर्बन्धनं-जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनं तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, उक्तं हि-जोगा पयडिपदेसं ठितिअणुभाग कसायओ कुणइ (बन्धशतके० 99) त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह- जीवा लण मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति,सचानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनांसयोगप्रत्यय एव,सतुबन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम्, उक्तं च-अप्पं बायरं मउयं बहुं च रुक्खं च सुक्किलं चेव / मंदं महव्वयं तिय सायाबहुलं च तं कम्म॥१॥ इति, अल्पं स्थित्या बादरं परिणामतो मृद्वनुभावतो बहु प्रदेशैर्मन्दं लेपतो वालुकावद्, महाव्ययं सर्वापगमात् / एतदेव दर्शयन्नाह-जीवा Nण मित्यादि, जीवाः- सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां स्थानाभ्यां कारणाभ्यां पापं- अशुभमशुभभवनिबन्धनत्वात्, न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभम्, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति- स्पृष्टाद्यवस्थं कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवस्तत्कथं कषाया एव इहोक्ता इति?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थम्, प्राधान्यं च स्थित्यनुभागप्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च-को दुक्खं पावेज्जा कस्स व सोक्खेहिं विम्हओ होजा?। को वा न लहेज मोक्खं? रागद्दोसा जइ न होज्जा // 1 // योगेभ्यः प्रकृतिप्रदेशबन्धं कषायेभ्यः स्थित्यनुभागबन्धं करोति // ॐ तत्सयोगिकर्म अल्पं बादरं मृदु बहु रूक्षं शुभ्रं चैव मन्दं महाव्ययं साताबहुलमिति // 1 // 0 को दुःखं प्राप्नुयात् कस्य वा सुखैर्विस्मयो भूयात् / को वा न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् // 1 / द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 16 प्रेम-द्वेषौ बन्धी, रागद्वेषाभ्यां पापम्, आभ्युपगमिक्यौपक्रमिकीयामुदीर्णादीनि, (योगप्रत्ययबन्धस्वरूपम्) // 159 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy