SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 156 // तिणि सहस्सा सत्त य सयाणि तेवत्तरं च ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अणंतनाणीहिं॥२॥ (जम्बू० 2/2-3, बृहत्सं० 208-209) इति, अहोरात्रास्त्रिंशन्मुहूर्त्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानं-पुव्वस्स उ परिमाणं सयरिं खलु होंति कोडिलक्खाओ। छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं॥१॥ (बृहत्सं० 316) इति, 70560000000000, पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा-'इच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणित च। काऊणं तइवारे पुव्वंगाईण मुण संखं॥१॥शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमाया: पश्चिमे भागेनरतिरश्चांचायुर्मीयत इति, किञ्च-शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, सचानतिशायिनांन व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाधुपन्यासः, तत्र पल्येनोपमा येषुतानि पल्योपमानि-असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति / मुहूर्त इति व्याख्यातः॥१॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छ्रासा एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः॥ 2 // पूर्वस्य तु परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाः। षट्पञ्चाशत्कोटीसहस्राणि च वर्षाणां बोद्धव्यानि ॥१॥ॐ इच्छितस्थानेन गुण्यं शून्यपञ्चकं चतुरशीतिगुणितं च / पूर्वाङ्गादीनां संख्यां ततिवारान् कृत्वा जानीहि॥१॥ द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 95 समयावलिकादित उत्सर्पिण्यन्तानाम् 25, ग्रामनगरादितोराजधान्यन्तानाम् 47, छायादीनां शनिप्रवातान्तानांच जीवा जीवत्वम् // 156 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy