SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानम्, तृतीयोद्देशक: सूत्रम् 88 पद्मदाद्या हृदाः थ्रयाद्या देव्यः श्रीस्थानाङ्ग महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेके उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया श्रीअभय० क्रोशबाहल्यया जिबिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च वृत्तियुतम् भाग-१ रोहित्प्रपातकुण्डसमानमान: यस्य च मध्ये रोहितांशाद्वीपो रोहिद्द्वीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनालङ्कतः, // 135 // यतश्चरोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति सरोहितांशाप्रपातहद इति / जंबू इत्यादि, हरिप्पवायद्दहे चेव त्ति हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेपेण यस्य च मध्यभागे हरिदेवताद्वीपो द्वात्रिंशद्योजनायामविष्कम्भ एकोत्तरशतपरिक्षेपो जलान्ताद् द्विक्रोशोच्छ्रितो हरिदेवताभवनभूषितोपरितनभागोऽसौ हरित्प्रपातहद इति / हरिकंतप्पवायदहे चेव त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागःस हरिकान्ताप्रपातह्रद इति। जंबूइत्यादि, सीयप्पवायद्दहे चेव त्ति यत्र नीलवतःशीता निपतति यश्चचत्वार्यशीत्यधिकानियोजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य चमध्ये शीताद्वीपश्चतुःषष्टियोजनायामविष्कम्भो व्युत्तरयोजनशतद्वयपरिक्षेपोजलान्ताद् द्विक्रोशोच्छ्रितःशीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहद इति, सीतोदप्पवायदहे चेवत्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातह्रदःशीताप्रपातहदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति / जंबू इत्यादि, नरकान्तानारीकान्ताप्रपातह्रदौ च हरिकान्ताहरित्प्रपातहदसमानौ स्वसमाननामद्वीपदेवीकाविति / एव मित्यादि, सुवर्णकूलारूप्यकलाप्रपातहृदौरोहितांशारोहित्प्रपातहदसमानवक्तव्यौ, विशेषस्तूह्य इति / जंबू इत्यादि, 0 मानस्तस्य मध्ये रोहितांशद्वीपो (मु०)। 7 देविका० (मु०)। // 135 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy