SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वात्तयुतम भाग-१ // 134 // श्रृयाद्या देव्य: सक्रोशषड्योजनविष्कम्भयाऽर्द्धक्रोशबाहल्यया जिबिकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च द्वितीयमध्ययनं मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो द्विस्थानम्, 8 तृतीयोद्देशकः नानामणिनिबद्धो यस्य च पूर्वापरदक्षिणासुत्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणा मध्यभागेच गङ्गादेवीद्वीपोऽष्टयोज सूत्रम् 88 नायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपोजलान्ताद् द्विक्रोशोच्छ्रितो वज्रमयोगङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्क- पाहदाद्या म्भेन किञ्चिदूनक्रोशोच्चेनानेकस्तम्भशतसन्निविष्टेनालङ्कतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवहे सक्रोशषड्योजनविष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्तरभरतार्द्ध विभजन्ती सप्तभिर्नदीसहस्रैरापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिर्नदीसहस्रैः समग्रा मुखे सार्द्धद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति सगङ्गाप्रपातह्रदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपिव्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहदा दशयोजनोद्वेधा वक्तव्या इति / यच्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतार इति / एव मित्यादि, एवमिति प्राग्वत् रोहियप्पवायद्दहे चेव त्ति रोहिद्- उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिकं योजनशतमायामविष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागेरोहिद्दीपः षोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपो जलान्ताद् द्विक्रोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहित्प्रपातहद इति / रोहियंसप्पवायद्दहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्यह्रदोत्तरतोरणेन निर्गत्य रोहितांशा // 134 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy