SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 133 // हृदाः निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, द्वितीयमध्ययनं जिह्विका मकरमुखस्य चत्वारि योजनानि आयामेन पञ्चाशद्विष्कम्भेण योजनं बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् / द्विस्थानम्, तृतीयोद्देशकः विभजन्ती चित्रविचित्रकूटौ पर्वतौ निषधह्रदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्रैरापूर्यमाणा भद्रशालवन सूत्रम् 88 मध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यङ्गखी आवर्तमाना अधो विद्युत्प्रभंवक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन पद्यहृदाद्या एकैकस्माद् विजयादष्टाविंशत्या अष्टाविंशत्या नदीसहस्ररापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा श्रूयाद्या देव्यः हि प्रवहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति / जंबू इत्यादि, शीता महानदी केसरिहदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति / नारीकान्ता तु उत्तरतोरणेन निर्गत्य हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति / एव मित्यादि, नरकान्ता महापुण्डरीकह्रदाद्दक्षिणतोरणेन विनिर्गत्य रम्यकवर्ष विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता। रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वर्षं विभजन्ती रोहिन्नदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति / जंबू इत्यादि, पवायद्दह त्ति प्रपतनं प्रपातस्तदुपलक्षितौ ह्रदौ प्रपातह्रदौ, यत्र हिमवदादेर्नगाद् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहद इति, प्रपातकुण्डमित्यर्थः, गंगापवायद्दहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मह्रदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशतानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया 0निर्गत्य रम्यकवर्ष विभजन्ती हरिन्म० (मु०)। // 133 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy