________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 132 // ह्रदाः एएसु सुरवहूओ वसंति पलिओवमद्वितीयाओ। सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ॥१॥ (बृहत्क्षेत्र० 170) त्ति जंबू द्वितीयमध्ययन इत्यादि, तत्र रोहिन्दी महापद्महदाद्दक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा द्विस्थानम्, तृतीयोद्देशकः गत्वा हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, सूत्रम् 88 मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन पद्मदाद्या निर्गत्य हैमवतवर्षमध्यभागवर्त्तिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाप्राप्ताऽष्टाविंशत्या नदीसहस्रः संयुज्याधोजगतीं विदार्य याद्या देव्यः पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं सर्वा महानद्यः पर्वताः कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तुमहापद्मह्रदादेवोत्तरतोरणेन निर्गत्य पश्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वासातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिबिकाप्रमाणं पूर्वोक्तद्विगुणम्, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्त्तिनंगन्धापातिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पञ्चाशता सरित्सहस्रः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति / एव मित्यादि, एवमिति जंबूद्दीवे त्याद्यभिलापसूचनार्थः / हरिन्महानदी तिगिछि8दस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन // 132 // प्रपातेन हरित्कुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेषं हरिकान्तासमानमिति / शीतोदामहानदी तिगिञ्छिहदस्योत्तरतोरणेन 0 एतेषु(ह्रदेषु)सुरवध्वो वसन्ति पल्योपमस्थितिकाः / श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीसनाम्न्यः॥१॥ नाप्राप्याष्टा० (मु०)10 प्रवाहे (मु०)हरितकुण्डे (मु०)।