________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 119 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः देवादीनाम् उपपातादि आयुःसंवर्त्त कान्तम् (गर्भे वैक्रिय गत्यन्तरंच) सुगमानि चैतानि नवरं दोण्हं ति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवा:- चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषां 1, उद्वर्त्तनमुद्वर्त्तना तत्कायान्निमो मरणमित्यर्थः, तच्च नैरयिकभवनवासिनामेवैवं व्यपदिश्यते, अन्येषांतु मरणमेवेति, नैरयिकाणां- नारकाणांतथा भवनेषु- अधोलोकदेवावासविशेषेषु वस्तुंशीलमेषामिति भवनवासिनस्तेषां 2, च्युतिश्च्यवनं मरणमित्यर्थः, तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु- नक्षत्रेषु भवा ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयम्, प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवर्तिषु भवा वैमानिकाः- सौधर्मादिवासिनस्तेषां 3, गर्भे- गर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्यास्तेषाम्, तिरोऽञ्चन्ति-गच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनी योनिः- उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशेष्यन्ते-पञ्चेन्द्रियाश्च ते तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषां 4, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति 5, वृद्धिः-शरीरोपचयः 6, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वाद्, निवरा कन्येत्यादिवत् 7, वैक्रियलब्धिमतां विकुर्वणा 8, गतिपर्यायः- चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्गामयति स वागतिपर्यायः, उक्तं च भगवत्यां- जीवेणं भंते! गब्भगए समाणे लणेरइएसु उववज्जेज्जा?, गोतमा!, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेजा, से केणटेणं०?, गोतमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउब्विअलद्धीए पराणीयं आगतं सोचा णिसम्म पएसे निच्छुब्भइ 2 वेउब्वियसमुग्घाएणं समोहन्नइ 2 विशिष्यन्ते (मु०)। 0 जीवो भदन्त! गर्भगतः सन् नैरयिकेषूत्पद्येत? गौतम ! अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत, तत्केनार्थेन०? गौतम ! स संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्ध्या वैक्रियलब्ध्या परानीकमागतं श्रुत्वा निशम्य प्रदेशान् निष्काशयति 2 वैक्रियसमुद्धातेन समवहन्ति 20 // 119 //