________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 113 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 81 भाषाऽक्षराऽऽतोद्यततघनभूषणतालेतरैः शब्दाः , तं०- तालसद्दे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं सद्दुप्पाते सिया, तंजहा- साहन्नताण चेव पुग्गलाणं सदुप्पाए सिया भिजंताण चेव पोग्गलाणं सहुप्पाए सिया ॥सूत्रम् 81 // दुविहेत्यादि अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, साच सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः१, अक्षरसम्बद्धो-वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्त्वितर इति 2, आतोद्यं-पटहादि तस्य यः शब्दः स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः 3, ततं यत्तन्त्रीवर्धादिबद्धमातोद्यं, 4, तच्च किश्चिद् घनं यथा पिजनिकादि किञ्चिच्छुषिरं यथा वीणापटहादिकं तज्जनितः शब्दस्ततो घनःशुषिरश्चेति व्यपदिश्यते 5, विततंततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते- ततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् / घनं तु काश्यतालादि, वंशादि शुषिरं मतम् // 1 // इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति 6, भूषणं नुपूरादि नोभूषणं भूषणादन्यत् 7, तालो- हस्ततालः, लत्तिय त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा लत्तियासद्दे त्ति पार्णिप्रहारशब्दः 8 // उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाहदोही त्यादि, द्वाभ्यां स्थानाभ्यां कारणाभ्यांशब्दोत्पादः स्याद्- भवेत् 8, संहन्यमानानां च सनातमापद्यमानानांसतां कार्यभूतः शब्दोत्पादः स्यात् पञ्चम्यर्थे वा षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामानां यथा घण्टालालयोः, एवं भिद्यमानानां च वियोज्यमानानां यथा वंशदलानामिति / पुद्गलसङ्घातभेदयोरेव कारणनिरूपणायाह दोहिं ठाणेहिं पोग्गला साहण्णंति, तं०- सई वा पोग्गला साहन्नंति परेण वा पोग्गला साहन्नति 1 / दोहिं ठाणेहिं पोग्गला संघातभेदाभ्यांच // 113 //