________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 111 // लब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते, एव मिति यथा शब्दान् देशसर्वाभ्यामेवं रूपादीनपि, नवरं द्वितीयमध्ययनं द्विस्थानम्, जिह्वादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनास्वादयतीत्यवसेयमिति / शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् द्वितीयोद्देशकः तत्परिणामान्तराण्याह- दोही त्यादि, नव सूत्राणिसुगमानि, नवरम्, अवभासते- द्योतते देशेन खद्योतकवत्, सर्वतः प्रदीपवत्, सूत्रम् 80 अथवा अवभासते-जानाति स च देशतः फड्डकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति 1, एव मिति देशसर्वाभ्यां प्रभासते- समवहत वैक्रियेतरैप्रकर्षेण द्योतते 2, विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति 3, परियारेइ त्ति, मैथुनं सेवते देशेन र्लोकज्ञानम्, मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि 4, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानैः 5, देशसर्वाभ्यां शब्दादिआहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया 6, आहारमेव परिणमयति- परिणामं नयति खलरसविभागेनेति ज्ञानम्, भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतोऽन्यथा तु सर्वतः 7, वेदयति- अनुभवति, देशेन हस्तादिना अवयवेन सर्वेण अवभासनादि सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः 8, निर्जरयति- त्यजत्याहारितान् परिणामितान् वेदितान् निर्जरान्तम्, मरुतादीनाम् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति 9, अथवैतानि चतुर्दशापि सूत्राणि विवक्षितविषय एकद्विवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा देशेनापी ति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छृणोतीति, शरीरत्वम् सर्वेणापी ति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवं प्रभासयति एवं विकुर्वणीयं विकुरुते परिचारणीयं स्त्रीशरीरादि परिचारयति भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो. // 111 // वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतःसर्वतोवा, एवं निर्जरयत्यपि। देशसर्वाभ्यांसामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह- दोही त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया