________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 110 // आया सद्दाइंसुणेति, एवं रूवाईपासइ, गंधाई अग्धाति, रसाइं आसादेति, फासाइंपडिसंवेदेति 5 / दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सव्वेणवि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासंभासति आहारेति परिणामेति वेदेति निजरेति ९।दोहिं ठाणेहिं देवे सद्दाइंसुणेइ, तं०- देसेणवि देवे सद्दाइंसुणेति सव्वेणवि देवे सद्दाइंसुणेइ, जाव निज्जरेति 14 / मरुया देवा दुविहा पं० तं०- एगसरीरे चेव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा 8, देवा दुविहा पं० तं०- एगसरीरे चेव बिसरीरे चेव ॥सूत्रम् ८०॥बिट्ठाणस्स बीओ उद्देसओ समत्तो 2-1 / 'दोही'त्यादि सूत्रचतुष्टयम्, द्वाभ्यां स्थानाभ्यां प्रकाराभ्यामात्मगताभ्यामात्मा- जीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन समवहतेन वैक्रियसमुद्धातगतेनात्मना-स्वभावेन, समुद्धातान्तरगतेन वा, असमवहतेन त्वन्यथेति, एतदेव व्याख्याति- आहोही त्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमावधेर्वाऽधोवय॑वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेनेति, एव मित्यादि, एव मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं तिर्यग्लोकादयोऽपीति, सुगमानि चतिर्यग्लोकोद्धुलोककेवलकल्पलोकसूत्राणि, नवरं केवलः- परिपूर्णः सचासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं लोकं चतुर्दशरज्ज्वात्मकमिति // वैक्रियसमुद्धातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रकारद्वयमाह- दोही त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं विउविएणं ति कृतवैक्रियशरीरेणेति / ज्ञानाधिकार एवेदमपरमाह-दोही त्यादि पञ्चसूत्री, द्वाभ्यां स्थानाभ्यां प्रकाराभ्यां देसेणवि त्ति देशेन च शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधान द्वितीयमध्ययन द्विस्थानम्, द्वितीयोद्देशकः सूत्रम् 80 समवहतवैक्रियेतरैलॊकज्ञानम्, देशसर्वाभ्यां | शब्दादिज्ञानम्, अवभासनादि निर्जरान्तम्, मरुतादीनाम् एकद्विशरीरत्वम् // 110 //