SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ | // 102 // उदीचीनं उदीचीमुत्तरामित्यर्थः, उक्तं च-पुव्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेज्जा / जाए जिणादओ वा हवेज जिणचेइयाई द्वितीयमध्ययन वा॥१॥(पञ्चवस्तु 131) इति ॥एव मिति यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्या- द्विस्थानम्, प्रथमोद्देशकः नीति, तत्र मुण्डयितुं शिरोलोचतः१ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमासेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि सूत्रम् 76 शिक्षयितुमिति 2, उत्थापयितुंमहाव्रतेषु व्यवस्थापयितुं 3 संभोजयितुंभोजनमण्डल्यां निवेशयितुं 4 संवासयितुंसंस्तारक- पूर्वोत्तरयोः प्रव्रज्यादि मण्डल्यां निवेशयितुं५, सुष्टु आ-मर्यादया अधीयत इति स्वाध्यायः- अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेद संलेखनान्तम् मित्येवमुपदेष्टुमिति 6, समुद्देष्टुं योगसमाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति 7, अनुज्ञातुं तथैव सम्यगेतद् धारय. अन्येषां च प्रवेदयेत्येवमभिधातुमिति 8, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति 9, प्रतिक्रमितुं- प्रतिक्रमणं कर्तुमिति 10, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुम्, आह च- संचरित्तपच्छयावो निंद (आव०नि० १६२)त्ति 11, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुम्, आह च-गरहाऽवि तहाजातीयमेव नवरं परप्पयासणय (आव०नि० 1063) त्ति, 12, विउट्टित्तए त्ति व्यतिवर्त्तयितुं वित्रोटयितुं विकुट्टयितुंवा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः 13, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति 14, अकरणतया-पुनर्न करिष्यामीत्येवमभ्युत्थातुं- अभ्युपगन्तुमिति 15, यथार्ह अतिचाराद्यपेक्षया यथोचितंपापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तं च-पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण / पाएण वावि चित्तं विसोहए तेण पच्छित्तं // 1 // (व्यव० भा० 35) ति, तपःकर्म-निर्विकृतिकादिकं प्रतिपत्तुं- अभ्युपगन्तुमिति 16, सप्तदशं सूत्रं पूर्वमुखो वोत्तरमुखो वा दद्यादथवा प्रतीच्छेत् / यस्यां जिनादयो वा भवेयुर्जिनचैत्यानि वा ॥१॥स्वचरितपश्चात्तापो निन्दा / गर्हाऽपि तथाजातीयैव नवरं परस्मै प्रकाशनम्।। पापं छिनत्ति यस्मात् पापच्छित्तु भण्यते तस्मात् / प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तम् // 1 // // 102 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy