________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 76 पूर्वोत्तरयोः प्रव्रज्यादि संलेखनान्तम् दण्डकेन निरूपयन्नाह- नेरझ्याण मित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति, जाव वेमाणियाणं ति दण्डकः सूचितः।शरीराधिकाराच्छरीरनिवर्तनसूत्रम्, तदप्येवम्, नवरमुत्पत्तिः- आरम्भमात्र निर्वर्तनातु निष्ठानयनमिति ।शरीराधिकाराच्छरीरवतांराशिद्वयेन प्ररूपणामाह-दो काए त्यादि, सनामकर्मोदयात् त्रस्यन्तीति त्रसाः, तेषांकायो- राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावरकाय इति / त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं तसकाये त्यादि सूत्रद्वयम्, सुगमं चेति / पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वापव्वावित्तए-पाईणंचेवउदीणंचेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तएसज्झायंसमुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए अहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए, दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा- पाईणं चेव उदीणंचेव // सूत्रम् 76 // बिट्ठाणस्स पढमो उद्देसओ समत्तो 2-1 // दो दिसाओ इत्यादि, द्वे दिशौ- काष्ठे अभिगृह्य- अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः, कल्पते-युज्यते निर्गता ग्रन्थाद्धनादेरिति निर्ग्रन्थाः- साधवस्तेषाम्, निर्ग्रन्थ्यः- साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन, प्राचीनं प्राची पूर्वामित्यर्थः, // 101 //