SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 100 // णेरइयाण मित्यादि, प्रायः कण्ठ्यम्, नवरंशीर्यते- अनुक्षणंचयापचयाभ्यां विनश्यतीति शरीरं तदेव सदनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं तेच द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः- मध्ये भवमाभ्यन्तरम्, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनाद्भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशायिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यम्, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वानिरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरंकम्मए त्ति कार्मणशरीरनामकर्मोदयनिर्वर्त्यमशेषकर्मणांप्ररोहभूमिराधारभूतम्, तथा संसार्यात्मनां गत्यन्तरसङ्कमणे साधकतमं तत् कार्मणवर्गणास्वरूपम्, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यम्, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, एवं देवाणं भाणियव्वं ति अयमों- यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानां- असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति / पुढवी त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिर्वृत्तमौदारिकम्, केवलमेकेन्द्रियाणामस्थ्यादिविरहितम्, वायूनां वैक्रियं यत्तन्न विवक्षितम्, प्रायिकत्वात् तस्येति // बेइंदियाण मित्यादि, अस्थिमांसशोणितैर्बद्धं- नद्धं यत्तत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः / पंचेंदिए त्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति // प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-विगहे त्यादि, विग्रहगति:- वक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वेशरीरे, इह तैजसकार्मणयोर्भेदेन विवक्षेति, एवंदण्डकः॥शरीराधिकारात् शरीरोत्पत्ति 0 शटनादि (मु०)। तिशयिना (मु०)। द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 75 दण्डकेषु शरीरप्ररूपणा, शरीरोत्पत्तिनिर्वृत्तिकारणम्, त्रसस्थावरयोर्भव्याभव्यभेदी // 100 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy