________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 12 // द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 79 प्रत्यक्षपरोक्षादिज्ञानं कालिकोत्कालिकान्तम् (23 आ०) च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्दा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वाद्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानाद् उपलब्धिर्भवति तद् ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावाद् अर्थावग्रहज्ञानमिति, आह च-अन्नाणं सो बहिराइणं व तक्कालमणुवलंभाओ।आचार्यः न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं॥१॥ (विशेषाव० १९५)ति, किञ्च-व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधादिति / अस्सुयनिस्सिएऽवि एमेव त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदंच श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितंतत्रार्थावग्रहः सम्भवति, यदाह-किह पडिकुक्कुडहीणो जुझे बिंबेण उग्गहो ईहा / किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति॥१॥(विशेषाव० 304) न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वाद्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति / सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं- तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं उप्पन्ने इवे त्यादिमातृकापदत्रयप्रभवंवा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति, आह च-गणहर १थेराइकतं 2 आएसा 1 मुक्कवागरणओ वा२। धुव 1 चलविसेसणाओ 2 अंगाणंगेसु नाणत्तं // 1 // (विशेषाव० ५५०)ति, अंगबाही त्यादि अवश्यं कर्त्तव्यमित्यावश्यकं 0 अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात्। न तदन्ते तत एवोपलम्भात्तकत् ज्ञानम् // 1 // ॐ कथं प्रतिकुक्कुटहीनो युध्यति बिम्बनावग्रह ईहा। किं | सुश्लिष्टमपायो दर्पणसंक्रान्तं बिम्बमिति // 1 // ॐ गणधरस्थविरादिकृतं आदेशाद् मुक्तव्याकरणतो वा। ध्रुवचलविशेषणाद्वा अङ्गानङ्गयोः नानात्वम् // 1 //