SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 90 // लिकान्तम् केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, सयोगी द्वितीयमध्ययन त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-व्यादिसमयो यस्य स तथा, शेषं तथैव, अथवे त्यादि, चरमः- द्विस्थानम्, प्रथमोद्देशकः अन्त्यः समयोयस्य सयोग्यवस्थायाःस तथा,शेषं तथैव, एव मिति सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगि सूत्रम् 71 सूत्रमपि वाच्यमिति, सिद्धे त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य / प्रत्यक्ष परोक्षादिज्ञानं व्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत्केवलज्ञानं तत्तथा व्यपदिश्यत इति / ओहिनाणे इत्यादि, भवपच्चइए कालिकोत्कात्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तम्, तत्राक्षेपः- ओही खओवसमिए भावे भूणितो भवो तहोदइए। तो (23 आ०) किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं?॥१॥ (विशेषाव० ५७३)ति देवनारकयोः, अत्र परिहारः- सोऽवि हु खओवसमिओ किन्तु स एव उखओवसमलाभो। तंमि सइ होइऽवस्सं भण्णइ भवपच्चओ तो सो॥१॥यतः- उदयक्खयखओवसमोवसमावि अज च कम्मुणो भणिया। दव्वं खेत्तं कालं भवं च भावं च संपप्प॥१॥ (विशेषाव० ५७४-७५)त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति / मणपज्जवे'त्यादि, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः- घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धन मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणीमतिर्विपुलमतिः-घटोऽनेन चिन्तितःसच सौवर्णः पाटलिपुत्रकोऽद्यतनो 0 अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदयिके। ततः कथं भवप्रत्ययिको वक्तुं युक्तोऽवधियोः? // 1 // 0 सोऽपि क्षायोपशामिकः किन्तु स एव तु क्षयोपशमलाभः। तस्मिन् सति भवत्यवश्य भण्यते भवप्रत्ययिकस्ततः॥१॥0 उदयक्षयक्षयोपशमोपशमा यच कर्मणो भणिताः। द्रव्यं क्षेत्र कालं भवं च भावं च संप्राप्य // 1 // ७०पुत्रिको (मु०)। // 90 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy