________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 85 // 67-69 समाः , उन्मादः, (7 आ०) दो समाओ पन्नत्ताओ, तं०- ओसप्पिणी समाचेव उस्सप्पिणी समा चेव॥सूत्रम् 67 // द्वितीयमध्ययन दुविहे उम्माए पं० तं०- जक्खावेसे चेव मोहणिज्जस्स चेव कम्मस्स उदएणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव द्विस्थानम्, प्रथमोद्देशकः सुहविमोयतराए चेव, तत्थ णंजे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोययराए चेव॥ सूत्रम् 68 // सूत्रम् दो दंडापं० तं०- अट्ठादंडे चेव अणट्ठादंडे चेव, नेरइयाणं दो दंडापं० तं०- अट्ठादंडे य अणट्ठादंडे य, एवं चउवीसा दंडओजाव वेमाणियाणं॥ सूत्रम् 69 // दो समाओ इत्यादि। समा- कालविशेषः, शेषं सुगमम् // केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह- दुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेश:- देवताधिष्ठितत्वं ततो यः स यक्षावेश सम्यग्दर्शनादि एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, तत्रे ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति सब सुखवेद्यतरक एव- मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते- त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयःसुखापनेयः सुखापेयतरः, तथा अत्यन्तंसुखेनैव विमुञ्चति यो देहिनं ससुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं- दुहवेयतराए चेव दुहविमोअतराए चेव त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं वा भवतीति दण्डं निरूपयन्नाहदो दंडे त्यादि, दण्डः- प्राणातिपातादिः, स चार्थाय- इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड // 85 //