SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 83 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 64 आरम्भपरिग्रहात्यागत्यागयोधर्माश्रवणश्रवणादि | (12 आ०) दो ठाणा इत्यादि। द्वे स्थाने द्वे वस्तुनी अपरियाणित्त त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिर्विण्ण इत्यर्थः, अपरियाइत्त'त्ति क्वचित्पाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आत्मा नो नैव केवलिप्रज्ञप्तं जिनोक्तं धम्मं श्रुतधर्म लभेत श्रवणतया श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-आरम्भाः कृष्यादिद्वारेण पृथिव्याधुपमर्दास्तान् परिग्रहा धर्मसाधनव्यतिरेकेण धनधान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्ध्या ज्ञेयाविति, केवलां शुद्धां बोधिं दर्शनं सम्यक्त्वमित्यर्थो बुध्येत अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामाद् बोध्यं जीवादीति गम्यते बुध्येत श्रद्दधीतेति // मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन भूत्वा संपद्य अगाराद् गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् केवलांपरिपूर्णां विशुद्धांवाऽनगारितां- प्रव्रज्यांप्रव्रजेत् यायादिति, एव मिति यथा प्राक्तथोत्तरवाक्येष्वपि 'दो ठाणाइ'मित्यादि वाक्यं पठनीयमित्यर्थः, ब्रह्मचर्येण अब्रह्मविरमणेन वासो- रात्रौ स्वापस्तत्रैव वा वासो- निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्यादिति, संयमेन पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, संवरेण आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते केवलं परिपूर्णं सर्वस्वविषयग्राहकं आभिणिबोहियनाणं ति अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयस्वभावत्वाद् बोधो- वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानं- इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयं उप्पाडेज त्ति उत्पादयेदिति, तथा एव मित्यनेनोत्तरपदेषु नो केवलं उप्पाडेज्जत्ति द्रष्टव्यम्, सुयनाणं ति श्रूयते तदिति श्रुतं- शब्द एव स च भावश्रुतकारणत्वाद् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते- इत्यधोऽधो धर्मश्रवणादि // 83 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy