________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययनं| द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 62-63 मनोवाग्भ्यां दीर्घ ह्रस्वेच // 79 // गर्हत इति भावः / अन्यथा गर्हाद्वैविध्यमाह-अहवे त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षा, द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा- बृहतीम्, अद्धां- कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वाद् दीर्घह्रस्वयोरिति, एवमपि ह्रस्वां- अल्पायावदेकोऽन्य इति, अथवा दीर्घामेव यावद् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति / अतीते गर्ने कर्मणि गर्दा भवति भविष्यति तु प्रत्याख्यानम्, उक्तं च- अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामी ति प्रत्याख्यानमाह- .. दुविहे पच्चक्खाणे पं० तं०- मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे दुविहे पं० तं०- दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्खाति // सूत्रम् 62 // दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गंदीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा- विजाए चेव चरणेण चेव ॥सूत्रम् 63 // दुविहे पच्चक्खाणे इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यानं- कथनं प्रत्याख्यानम्, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च-मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति / प्रकारान्तरेणापि तदाह- अहवे त्यादि, Oरापेक्षो (मु०)। 0 अतीतं निन्दामि प्रत्युत्पन्न संवृणोमि अनागतं प्रत्याख्यामि / प्रत्याख्याने च, ज्ञानक्रियाभ्यां मोक्षः // 79