________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 78 // इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति 34-36 // एताश्च क्रियाः प्रायो गर्हणीया इति गर्हामाह दुविहा गरिहा पं० 20- मणसा वेगे गरहति / वयसा वेगे गरहति / अहवा गरहा दुविहा पं० तं०- दीहं वेगे अद्धंगरहति, रहस्सं वेगे * अद्धंगरहति ॥सूत्रम् 61 // दुविहा गरहे त्यादि, विधानं विधा द्वे विधे- भेदौ यस्याः सा द्विविधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा च स्वपरविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च-अप्पाहन्नेऽवि इहं कत्थइ दिट्ठो हु दव्वसदोत्ति। अंगारमद्दओ जह दव्वायरिओ सयाऽभव्वो // 1 // (पञ्चा० ६/१३)त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति, चतुर्दा गर्हणीयभेदाद्बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह-मणसा वेगेगरहइ त्ति मनसा-चेतसावाशब्दो विकल्पार्थो अवधारणार्थोवा, ततोमनसैवनवाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसासमारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततःसमुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गर्हते-जुगुप्सते गॉमिति गम्यते, तथा वचसा-वाचा वा, अथवा वचसैव न मनसा, भावतो दुश्चरिताविरक्तत्वाजनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवद् एकोऽन्यो गर्हत इति, अथवा मणसाऽवेगे त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थः- अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपि न केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव (c) अप्राधान्येऽपि इह क्वचिद्दष्ट एव द्रव्यशब्द इति। अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः // 1 // (r) दुश्चरितादि उक्तत्वाज० (मु०)। द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 61 मनोवाग्भ्यां दीर्घ ह्रस्वे च गहें प्रत्याख्याने च, ज्ञानक्रियाभ्यां मोक्षः // 78