SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-ददतोऽन्येति 27 / पुनरन्यथा द्वे आणवणिया चेव त्ति आज्ञापनस्य-आदेशनस्येय- द्वितीयमध्ययन श्रीअभय द्विस्थानम्, माज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तज्जः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा वेयारणिया चेव वृत्तियुतम् प्रथमोद्देशक: भाग-१ त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारणीत्यादि वाच्यमिति 28 / एते च द्वे अपि द्वेधा सूत्रम् 58-59| // 77 // जीवाजीवभेदादिति, तथाहि- जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया जीवा जीवादिभेदे अजीवाऽऽज्ञापनी अजीवानायनी वेति 29 / तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति- स्फोटयतीति, अथवा द्विप्रत्यवतारः जीवमजीवं वाऽ समानभाषेषु विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेत्ति भणितं होति, अथवा जीवं-पुरुषं सूत्रम् 60 जीवाजीववितारयति-प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशस्तादृशस्त्वमिति, पुरुषादिवितारणबुद्ध्यैव वाऽजीवं भणत्येतादृश क्रियादीनि 36 समेतदिति यत्साजीववेयारणिआऽजीववेयारणिया वत्ति / एतत्सर्वमतिदेशेनाह-जहेव नेसत्थिय त्ति 30 / अन्यथा वा द्वे अणाभोग वत्तिया चेवत्ति अनाभोगः- अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, अणवकंखवत्तिया चेवत्ति अनवकाङ्क्षा-स्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति 31 / आद्या द्विधा- अणाउत्तआइयणया चेव त्ति अनायुक्तः- अनाभोगवाननुपयुक्त इत्यर्थस्तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा अणाउत्तपमज्जणया चेव त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति 32 / द्वितीयाऽपि द्विविधा- आयसरीरे त्यादि, तत्रात्मशरीरानवकाङ्क्षाप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तुल कुर्वतो द्वितीयेति 33 / दो किरिये त्यादि त्रीणि सूत्राणि कण्ठ्यानि, नवरं प्रेम-रागोमायालोभलक्षणो द्वेषः क्रोधमानलक्षण ®त्यजतो० (मु०)। ॐ असमानभागेषु यो विक्रीणाति द्वैभाषिको वि० / 0 वाऽसमानभावेषु प्र. / 7 व्यवहारे द्वारीभवति (द्विलालः)। 7 विप्रतार० (मु०)। सूत्राणि // 77 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy