________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 76 // स्पृष्टिः स्पर्शनं ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति 19 / आधा द्वेधा- जीवदिठ्ठिया चेव त्ति या अश्वादिदर्शनार्थं न द्वितीयमध्ययन गच्छतः, तथा अजीवदिट्ठिया चेव त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति 20 / एवं पुठ्ठिया द्विस्थानम्, प्रथमोद्देशकः वित्ति एव मिति जीवाजीवभेदेन द्विधैव, तथाहि- जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका सूत्रम् 58-59/ जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति 21 / पुनरन्यथा द्वे- पाडुच्चिया चेव त्ति बाह्य वस्तु प्रतीत्य- आश्रित्य जीवा जीवादिभेदे भवाप्रातीत्यिकी तथा सामन्तोवणिवाइया चेव त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवासामन्तोपनिपातिकी द्विप्रत्यवतारः 22 // आद्या द्वेधा-जीवपाडुच्चिया चेव त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा अजीवपाडुच्चिया चेव त्ति अजीवं प्रतीत्य सूत्रम् 60 जीवाजीवयो रागद्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यकीति 23 / द्वितीयापि द्विधैवेत्यतिदिशन्नाह- एवं सामन्तोवणिवाइयावि क्रियादीनि 36 त्ति तथाहि- कस्यापि षण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति सूत्राणि जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति 24 / अन्यथा वा द्वे साहत्थिया चेव त्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी तथा नेसत्थिया चेव त्ति, निसर्जनं निसृष्टम्, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति 25 / तत्र आद्या द्वेधा-जीवसाहत्थिया चेव त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा अजीवसाहत्थिया चेव त्ति यच्चस्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति 26 / द्वितीयाऽपि जीवाजीवभेदैवेत्यतिदिशन्नाह- एवं नेसत्थिया वित्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनंसा जीवनैसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुर्बादौ जीवं- शिष्यं पुत्रं वा निसृजतो- ददत एका, // 76 //