________________ दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनं विद्ध्यात्, एतत्तस्य भिक्षोः सामग्यमिति // 282 // दशमोद्देशकः समाप्तः॥२-१ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 617 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, एकादशोद्देशकः सूत्रम् 283 ग्लानपिण्डः पानैषणाच ॥प्रथमाध्ययने एकादशोद्देशकः॥ उक्तो दशमः, अधुनैकादश: समारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते भिक्खागा नामेगे एवमाहंसुसमाणे वा वसमाणे वा गामणुगामं वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू नो भुंजिज्जा तुमं चेव णं अँजिजासि, से एगइओ भोक्खामित्तिकट्ठ पलिउंचिय 2 आलोइज्जा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नोखलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा॥१॥तहाठियं आलेइज्जा जहाठियं गिलाणस्स सयइत्ति, तं जहा तित्तयं तित्तएत्ति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं०॥२॥सूत्रम् 283 // भिक्षामटन्ति भिक्षाटा: भिक्षणशीलाः साधव इत्यर्थः, नामशब्द; सम्भावनायाम्, वक्ष्यमाणमेषां संभाव्यते, एके केचन एवमाहुः- साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, ते च साधवः समाना वा साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च वसन्तः वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधु: ग्लायति ग्लानिमनुभवति, तत्कृते तान् साम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से इति एतन्मनोज्ञमाहारजातं हन्दह गृह्णीत यूयं णं इति वाक्यालङ्कारे तस्य ग्लानस्य आहरत नयत, तस्मै प्रयच्छत इत्यर्थः, ग्लानश्चेन्न भुङ्क्ते ग्राहक एवाभिधीयते- त्वमेव // 617 //