SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 618 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, एकादशोद्देशकः सूत्रम् 284 ग्लानपिण्डः पानैषणाच भवेति, स च भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारं तत्राध्युपपन्न: सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य पलिउंचिअपलिउंचिय त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत् दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा- अग्रतो ढौकयित्वा वदति- अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं लोए त्ति रूक्षः, तथा तिक्त: कटः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य सदतीति उपकारे न वर्त्तत इत्यर्थः, एवं च मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति / यथा च कुर्यात्तदर्शयति- तथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवतिमातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् // 283 // तथा भिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे वागामाणुगामंदूइज्जमाणे वा मणुनं भोयणजायंलभित्ता से य भिक्खू गिलाइसे हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, से णं नो खलु मे अंतराए आहरिस्सामि, इच्चेयाई आयतणाई उवाइकम्म॥सूत्रम् 284 // भिक्षादा: साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वाग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थं आहरेत् आनयेत्, स चैवमुक्तः सन्नेवं वदेद्यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्धाट्य ग्लानायादत्त्वा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा मम शूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृ(सं)स्थानं संस्पृशेत्, एतदेव दर्शयति- इत्येतानि- पूर्वोक्ता-न्यायतनानि0 प्रतिज्ञायाऽऽहा० (प्र०)। // 618 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy