________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् / / 614 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, दशमोद्देशक: सूत्रम् 280-281 साधारणादिपिण्डे कर्तव्यता वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा- आचार्यः अनुयोगधरः 1 उपाध्यायः अध्यापकः 2 प्रवृत्तिर्यथायोग वैयावृत्त्यादौ साधूनां प्रवर्तक: 3, संयमादौ सीदतांसाधूनां स्थिरीकरणात्स्थविर: 4, गच्छाधिपो गणी 5, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः 6, गणावच्छेदकस्तु गच्छकार्यचिन्तकः 7, अवियाइंति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया खद्धं खद्धं ति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् पर: आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव निसृजेत दद्यात् सर्वानुज्ञया सर्वं वा दद्यादिति // 279 // किञ्च से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दट्ठणं सयमाइए आयरिए वा जाव गणावच्छेए वा॥१॥नो खलु मे कस्सइ किंचिदायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिज्जा ॥२॥से तमायाए तत्थ गच्छिज्जा 2 पुव्वामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइज्जा, नो किंचिवि णिगूहिजा // 3 // से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं 2 भुच्चा विवन्नं विरसमाहरइ, माइ०, नो एवं०॥४॥सूत्रम् 280 // सुगमम्, यावन्नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति- स: भिक्षुः तं पिण्डमादाय तत्र आचार्याद्यन्तिके गच्छेद, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किञ्चित् अवगूहयेत् प्रच्छादयेदिति // साम्प्रतमटतो मातृस्थानप्रतिषेधमाह स: भिक्षुः एकतरः कश्चित् अन्यतरत्वर्णाद्युपेतं भोजनजातं परिगृह्याटन्नेव रसगृनुतया भद्रकं 2 भुक्त्वा यद् विवर्णं अन्तप्रान्तादिकं तत्प्रतिश्रये समाहरति आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति // 280 // किञ्च से भिक्खू वा० से जं० अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुमेरगंवा उच्छुसालगंवा उच्छुडालगंवा सिंबलिं वा सिंबलथालगं वा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा० अफा० ॥१॥से 8 // 614 //