________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 613 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, दशमोद्देशकः सूत्रम् 279 साधारणादिपिण्डे कर्तव्यता तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्र्यमिति // 278 // नवमोद्देशकः परिसमाप्तः। ॥प्रथमाध्ययने दशमोद्देशकः॥ उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणदि-पिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा ॥१॥से तमायाय तत्थ गच्छिज्जा 2 एवं वइजा-आउसंतोसमणा! संति मम पुरेसंथुया वा पच्छा० तंजहा-आयरिए वा 1 उवज्झाए वा 2 पवित्ती वा ३थेरेवा ४गणी वा 5 गणहरे वा ६गणावच्छेइए वा 7 अवियाईएएसिंखद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइजा-कामं खलु आउसो! अहापज्जतं निसिराहि, जावइयं 2 परोवदइ तावइयं 2 निसिरिजा, सबमेवं परो वयइ सव्वमेयं निसिरिजा // 2 // सूत्रम् 279 // स: भिक्षुः एकतरः कश्चित् साधारणं बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छ्य यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया खद्धं खलु ति प्रभूतं प्रभूतं प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति // असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति स: भिक्षुः तं एषणीयं केवलवेषावाप्तं पिण्डमादाय तत्र आचार्याद्यन्तिके गच्छेत्, गत्वा चैवं वदेद्, यथा- आयुष्मन्! श्रमण! सन्ति विद्यन्ते मम पुर: संस्तुताः यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः पश्चात्संस्तुता वा यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो // 613 //