________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / 607 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, नवमोद्देशकः सूत्रम् 272 अनेषणीयाहार परित्याग: पाककालमेव बलात्पाकमानीयते तदाम-अपरिणतं न प्रतिगृह्णीयादिति // कणं इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् कणिककुण्डं कणिकाभिर्मिश्राः कुक्कुसाः कणपूयलिअंति कणिकाभिर्मिश्राः पूपलिकाः, कणपूपलिकाः अत्रापि मन्दपक्कादौ नाभिःसंभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः सामम्यं सम्पूर्णो भिक्षुभाव इति // 271 / / अष्टमोद्देशकः समाप्त: // 2-1-1-8 // ॥प्रथमाध्ययने नवमोद्देशकः॥ उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते इह खलु पाईणं वा ४संतेगइया सड्डा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिंचणं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा 4 भुत्तए वा पायए वा ॥१॥से जं पुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं 4 सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा 4 चेइस्सामो॥२॥, एयप्पगारं निग्धोसं सुच्चा निसम्म तहप्पगारं असणं वा 4 अफासुयं० // 3 // सूत्रम् 272 // इहे ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुस्ते च श्रावका: प्रकृतिभद्रका वा, ते चामी- गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्व पूलिकाः कणपूलिकाः (प्र०)। // 607 //