SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 594 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययनं पिण्डैषणा, षष्ठोद्देशक: सूत्रम् 258-259 गृहप्रवेशप्रतिषेधः चाउलपलंब ति अर्द्धपक्वशाल्यादिकणादिकमित्येवमादिकं असंयत: गृहस्थ: भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायां अकुट्टिषुः कुट्टितवन्तस्तथा कुट्टन्ति कुटिष्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यम्, पूर्वत्र वा जातावेकवचनम्, तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा उप्फणिंसु त्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति // 257 / / किश्च से भिक्खूवा 2 जाव समाणे से जं० बिलं वा लोणं उब्भियं वा लोणं अस्संजए जाव संताणाए, भिंदिसु 3 रुचिंसुवा 3 बिलंवा लोणं उभियं वा लोणं अफासुयं० नोपडिगाहिज्जा / / सूत्रम् 258 // सभिक्षुर्यदि पुनरेवं विजानीयात्, तद्यथा- बिलमिति खनिविशेषोत्पन्नं लवणम्, अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यम्, तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद्, यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात्क्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्यम्, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः- कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं रुचिंसुव त्ति पिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो प्रतिगृह्णीयात् // 258 // अपि च से भिक्खू वा जाव जं पुण जाणिज्जा असणं वा 4 अगणिनिक्खित्तं तहप्पगारं असणं वा 4 अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वा आमज्जमाणे वा पमजमाणे वा ओयारेमाणेवा उव्वत्तमाणे वा अगणिजीवे हिंसिज्जा // 1 // अह भिक्खूणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा 4 // 594 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy