SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 593 // प्रतिषेधः हस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गृह्णीयादिति // अथक श्रुतस्कन्धः 2 पुनरेवं विजानीयात्, तद्यथा- नैव उदकाइँण गलद्विन्दुना हस्तादिना दद्यात्, किन्तु सस्निग्धेन शीतोदकस्तिमितेन, तेनापि चूलिका-१ प्रथममध्ययन हस्तादिना दीयमानं न प्रतिगृह्णीयात्, एवमिति प्राक्तनंन्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्य तथाऽन्येन रजसाऽपि, पिण्डैषणा, एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोष:- क्षारमृत्तिका हरितालहिङ्गलकमन:शिलाऽञ्जनलवणगेरुकाः प्रतीताः सचित्ताश्च षष्ठोद्देशकः खनिविशेषोत्पत्तेः, वर्णिका- पीतमृत्तिका, सेटिका- खटिका, सौराष्ट्रिका- तुबरिका, पिष्टं- अच्छटिततन्दुलचूर्णः, कुक्कुसाः सूत्रम् 257 गृहप्रवेशप्रतीताः, उक्कुटुं ति पीलुपर्णिकादेरुदूखलचुर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति / अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तर्हि?- संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, तद्यथा असंसट्टे हत्थे असंसट्टे मत्ते निरवसेसे दव्वे इत्येकैकपदव्यभिचारान्नेयाः, स्थापना चेयं- अथ पुनरसौ भिक्षुरेवं जानीयात्, तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति // 256 // किञ्च से भिक्खूवा 2 से जंपुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंबवा असंजए भिक्खूपडियाए चित्तमंताए सिलाए जाव संताणाए कुर्दिसु वा कुट्टिति वा कुट्टिस्संति वा उप्फणिंसु वा 3 तहप्पगारं पिहुयं वा० अप्फासुयं नो पडिगाहिज्जा / / सूत्रम् 257 // / / 593 // स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा- पृथुकं शाल्यादिलाजान् बहुरयं ति पहुङ्क ®नो गृह्णीयादिति (मु०) ॐ स्तिमितेनापि (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy