________________ श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, चतुर्थोद्देशकः सूत्रम् 247 सङ्गडिदोषः श्रीआचारानंनववा प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभं लप्स्ये, तदेव दर्शयति- पिण्डं शाल्योदनादिकं लोयं इन्द्रियानुकू नियुक्ति- रसाद्युपेतमुच्यते, तथा क्षीरं वेत्यादि सुगमं यावत्सिहरिणीं वेति नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा श्रीशीला० वृत्तियुतम् कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्रुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानम्, फाणियंति उदकेन द्रवीकृतो गुडः क्वथितोऽश्रुतस्कन्धः२ क्वथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतगृहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिना॥ 582 // sऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृत वदनःप्राघूर्णकभिक्षुभिः सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यत: प्रतिषिध्यते- नैवं कुर्यादिति 247 // कथं च कुर्यादित्याह सभिक्षुः तत्रग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध कालेन भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र इतरेतरेभ्य: उच्चावचेभ्यः कुलेभ्यः सामुदानिक भिक्षापिण्डं एषणीयं उद्गमादिदोषरहितं वैषिकं केवलवेषावाप्तं धात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः सामग्र्यं सपूर्णो भिक्षुभाव इति // चतुर्थोद्देशकः समाप्तः // 2-1-1-4 // ॥प्रथमाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह (r) इतीन्द्रिया० (मु०)। 2 // 582 //