SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 579 // दृष्ट्वा न तत्र गन्तव्यम्, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यांसा तथा, एवं मांसखलमिति, यत्र सङ्खडिनिमित्तं श्रुतस्कन्धः 2 मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा आहेणं ति चूलिका-१ प्रथममध्ययन यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, पहेणं ति वध्वा नीयमानाया यत्पितृगृहभोजनमिति, हिंगोलं ति मृतकभक्तं पिण्डैषणा, यक्षादियात्राभोजनं वा, संमेलं ति परिजनसन्मानभक्तं गोष्ठीभक्तं वा, तदेवंभूतां सङ्कडिं ज्ञात्वा तत्र च केनचित्स्वजनादिना चतुर्थोद्देशकः तन्निमित्तमेव किञ्चिद् ह्रियमाणं नीयमानं प्रेक्ष्य तत्र भक्तार्थी न गच्छेद, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च सूत्रम् 245 सङ्कडिदोषः दर्शयति- गच्छतस्तावदन्तरा- अन्तराले से तस्य भिक्षो: मार्गाः पन्थानो बहवः प्राणा:- प्राणिनः पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बह्ववश्याया बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खडिस्थाने बहवः श्रमण-ब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिष्यन्ति तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः वृत्ति: वर्त्तनं अतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्ति: कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया / बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुरःसंखडिं पश्चात्सङ्खडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनायेति // 1 // साम्प्रतमपवादमाह-स भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यं वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात्-मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा-अन्तराले से तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकाः, तदेवमल्पदोषां सङ्घडिं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे ___(c) भिक्षार्थं (मु०)। // 579 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy