________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 576 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, तृतीयोद्देशकः सूत्रम् 243 सङ्कडिदोषः पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा / तस्य चोपकरणमनेकधेति, तद्यथा दुग तिग चउक्क पंचग नव दस एक्कारसेव बारसहेत्यादि / तत्र जिनकल्पिको द्विविध:- छिद्रपाणिरच्छिद्रपाणिश्च, तत्राच्छिद्रपाणे:शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणम्, तद्यथा- रजोहरणंमुखवस्त्रिकाच, कस्यचित्त्वक्त्राणार्थं क्षौमपटपरिग्रहात्त्रिविधम्, अपरस्योदकबिन्दुपरितापा (पाता)दिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्द्धा, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात्पञ्चधेति। छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनियोगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनियोगश्च पत्तं 1 पत्ताबंधो 2 पायट्ठवणं 3 च पायकेसरिया 4 / पडलाइ 5 रयत्ताणं 6 च गोच्छओ७ पायनिज्जोगो // 1 // अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुामादेर्बहिर्विहारभूमिं स्वाध्यायभूमिं वा तथा विचारभूमिं विष्ठोत्सर्गभूमिं सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वा, एतद्वितीयम्, एवं ग्रामान्तरेऽपितृतीयं सूत्रम् // 242 // साम्प्रतं गमनाभावे निमित्तमाह से भिक्खू 2 अह पुण एवं जाणिज्जा-तिव्वदेसियं वासं वासेमाणं पेहाए तिव्वदेसियं महियं संनिवयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिवयमाणा पेहाए से एवं नच्चा नो सव्वं भंडगमायाएगाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज वा बहिया विहारभूमि वा वियारभूमिं वा निक्खमिज्ज वा पविसिज वा गामाणुगामं दूइज्जिज्जा। सूत्रम् 243 // स भिक्षुरथ पुनरेवं विजानीयात्, तद्यथा- तीव्र- बृहद्धारोपेतं देशिकं-बृहत्क्षेत्रव्यापि तीव्र च तद्देशिकं चेति समासः, बृहद्धारं पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका / पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः // 1 // // 576 //