________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 575 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, तृतीयोद्देशकः सूत्रम् 241-242 सङ्कडिदोषः यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितम्, तच्चान्यस्मैदीयमानमन्तराले साधुगृह्णीयात्, तस्मादेतान्दोषानभिसंधार्य संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णामवमा वा सङ्कडिं विज्ञाय सङ्कडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति॥२४०॥साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह से भिक्खूवा रजाव समाणे से जंपुण जाणिज्जा असणं वा 4 एसणिज्जे सिया अणेसणिज्जे सिया वितिगिंछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा 4 लाभे संते नो पडिगाहिज्जा / / सूत्रम् 241 // स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा-विचिकित्सा-जुगुप्साउनेषणीयाशङ्का तया समापन्न:-शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना असमाहडाए अशुद्धया लेश्यया- उद्गमादिदोषदुष्टमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या- अन्त:करणरूपोपजायते तया सत्या तथाप्रकारं अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे जं संके तं समावज्जे इति वचनान्न प्रतिगृह्णीयादिति // 241 ॥साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह से भिक्खूगाहावइकुलं पविसिउकामे सव्वं भंडगमायाएगाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज वा ॥१॥से भिक्खू वा 2 बहिया विहारभूमिं वा वियारभूमिं वा निक्खममाणे वा पविसमाणे वा सवं भंडगमायाए बहिया विहारभूमिं वा वियारभूमिं वा निक्खमिज वा पविसिज्ज वा॥२॥से भिक्खूवा रगामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामंदूइजिज्जा // 3 // सूत्रम् 242 // स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टकामः सर्वं निरवशेष भण्डकं धर्मोपकरणं आदाय गृहीत्वा गृहपतिकुलं (r)* भिसंप्रधार्य (मु०)। (r) जुगुप्सा वाऽने० (मु०)। ॐ यं शङ्केत तं समापद्येत / // 575 //