SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 568 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् 235 भिक्षाविधिः गृहस्थान् भुजानान् प्रेक्ष्य दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा- गृहपतिभार्यादिकं भुजानं पूर्वमेव आलोकयेत् पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात्, तद्यथा- आयुष्मति! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरद्भोजनजातमिति, एवं वदते साधवे परो- गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति। अन्यग्रामचिन्तामधिकृत्याह से भिक्खू वा 2 परं अद्धजोयणमेराए संखडिं नच्चा संखडिपडियाए नो अभिसंधारिजा गमणाए॥१॥से भिक्खू वा 2 पाईणं संखडि नच्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिं नच्चा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं नच्चा उदीणं गच्छे अणाढायमाणे, उईणं संखडिं नच्चा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा-गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसिवा संनिवेसंसि वा जाव रायहाणिसि वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए॥२॥केवली बूया-आयाणमेयं संखडिंसंखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियंवा मीसजायंवा कीयगडंवा पामिच्चंवा अच्छिज्जं वा अणिसिटुंवा अभिहडंवा आहट्टदिज्जमाणं जिजा॥३॥ सभिक्षुः परं प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्घडिस्तांज्ञात्वा तत्प्रतिज्ञया नाभिसंधारयेत् न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् // यदि पुनर्ग्रामेषु परिपाट्या पूर्वप्रवृत्तं गमनं तत्र च सङ्कडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह स भिक्षुर्यदि प्राचीनां पूर्वस्यां दिशि संखडिं जानीयात्ततः प्रतीचीनं अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः / प्राचीनं गच्छेत्, एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत्? - अनाद्रियमाण: सङ्घडिमनादरयन्नित्यर्थः, एतदुक्तं भवति // 568 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy