SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध:२ चूलिका-१ प्रथममध्ययनं श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 564 // प्रथमोद्देशकः सूत्रम् 232 आहारविधिः भिक्षार्थं व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भाग:- अर्धपोषो दीयते, तथा नित्यमुपार्द्धभाग:- पोषचतुर्थभागः, तथाप्रकाराणि कुलानि नित्यानि नित्यदानयुक्तानि नित्यदानादेव निइउमाणाइन्ति नित्यं उमाणं ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्ष:-संयतवर्ग: परपक्ष:- अपरभिक्षाचरवर्ग:सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्कायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादित्यतस्तानि नो भक्तार्थं / पानार्थं वा प्रविशेन्निष्क्रामेद्वेति ॥सर्वोपसंहारार्थमाह एतदि ति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षो: सामग्र्यं समग्रता यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङ्गालधूमकारणैःसुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामण्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता। चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति- यत् सर्वार्थ: सरसविरसादिभिराहारगतै: यदिवा रूपरसगन्धस्पर्शगतैः सम्यगित: समितः संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समित: शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा यतेत संयमयुक्तो भवेदित्युपदेशः ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह- भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति / शेषं पूर्ववदिति / / 232 // // प्रथमोद्देशकः समाप्तः।। मकारणैः सुपरिशुल: सरसविरसादिामसतियावत्, एवंभूतश्च सा // 564 // ॥प्रथमाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि / ®प्रमाणाङ्गारधूम० (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy