________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 559 // | श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 227 आहारविधिः तिलगोधूमादि, तथा तिलगोधूमादेः मन्थु चूर्णं तथा चाउला: तन्दुला: शालिव्रीह्यादेस्त एव चूर्णीकृतास्तत्कणिका वा चाउलपलम्बन्ति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं संभज्जियं ति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेणाप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् // 1 // एतद्विपरीतं ग्राह्यमित्याह- पूर्ववत्, नवरं यदसकृद्-अनेकशोऽग्न्यादिना पक्वमामर्दितं वा दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति // 226 // साम्प्रतं गृहपतिकुलप्रवेशविधिमाह से भिक्खूवा भिक्खुणी वा गाहावइकुलं जाव पविसिउकामे नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अप्परिहारिएणं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिज्ज व निक्खमिज वा ॥१॥से भिक्खू वा० बहिया वियारभूमिं वा विहारभूमिं वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा ॥२॥से भिक्खूवा० गामाणुगामं दूइज्जमाणे नो अन्नउत्थिएण वा जाव गामाणुगामं दूइज्जिज्जा ॥३॥सूत्रम् 227 // P स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्धं न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः। यैः सहन प्रवेष्टव्यं तान् स्वनामग्राहमाह- तत्रान्यतीर्थिकाः- सरजस्कादयः गृहस्थाः पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा- ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च, तेषां वा स्वजात्याद्युत्कर्ष इति, अथ पृष्ठतस्ततस्तत्प्रद्वेषो दातुर्वाऽभद्रकस्य, लाभं (r) तथा गोधूमा० (मु०)। // 559 //