SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 558 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 226 आहारविधिः सालीणं केवइअंकालं जोणी संचिट्ठइ? इत्याद्यालापकाः, अविदलकडाओ त्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, अतिरिच्छच्छिन्नाओ त्ति तिरश्चीनं छिन्ना:-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्या:, अव्वोछिन्नाओ त्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा तरुणियं वा छिवाडि ति, 'तरुणीं' अपरिपक्वां 'छिवाडिन्ति मुद्गादेः फलिम्, तामेव विशिनष्टि अणभिक्कंता भन्जिय न्ति, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थः, अभज्जियं अभग्नां-अमर्दितामविराधितामित्यर्थः, इति प्रेक्ष्य दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे सति न प्रतिगृह्णीयात् / साम्प्रतमेतदेव सूत्रं विपर्ययेणाह- स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात्, तद्यथा- अकृत्स्नाः असम्पूर्णा द्रव्यतो भावतश्च पूर्ववच्चर्चः, अस्वाश्रयाः विनष्टयोनयः, द्विदलकृताः ऊर्ध्वपाटिताः तिरश्चीनच्छिन्नाः कन्दलीकृतास्तथा तरुणिकां वा फलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति // 225 // ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंबं वा सई __ संभज्जियं अफासुयं जाव नो पडिगाहिज्जा ॥१॥से भिक्खूवा० जाव समाणे से जंपुण जाणिज्जा-पिहुयं वा जाव चाउलपलंबं वा असई भज्जियं दुक्खुत्तो वा तिक्खुत्तो वा भज्जियं फासुयं एसणिज्जं जाव पडिगाहिज्जा ॥२॥सूत्रम् 226 // स भावभिक्षुर्यावगृहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः- तुषादिकं यस्मिंस्तद्बहुरजः, भुज्जिय न्ति अग्न्यर्द्धपक्वं गोधूमादेः शीर्षकमन्यद्वा - शालीनां कियन्तं कालं योनिः संतिष्ठति ? B // 558 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy