SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 556 // विकल्पार्थः शून्यगृहाद्युपसङ्ग्रहार्थो वा, तद्विशिनष्टि- अल्पाण्डे अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्प | श्रुतस्कन्धः२ बीजेऽल्पहरिते अल्पावश्याये अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा, अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानकेतत्रोत्तिङ्ग- चूलिका-१ प्रथममध्ययनं स्तृणाग्रउदकबिन्दुः, (भुजितेत्युत्तरक्रियया सम्बन्ध:) पनक:- उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट: | पिण्डैषणा, सूक्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तान:- कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्रथमोद्देशक: प्राग्गृहीताहारस्य यत्संसक्तं तद् विविच्य विविच्य त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, उन्मिश्रं / सूत्रम् 224 | अशनादिविधिः वा आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः विशोध्य विशोध्य अपनीयापनीय ततः तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च बायालीसेसणसंकडंमि गहणमि जीव! ण हु छलिओ / इण्हिं जह न छलिज्जसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं वियाणाहि / रागद्दोसविमुक्को भुजेज्जा निज्जरापेही // 2 // यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासम्भवाद्वा स भिक्षुः तद् आहारजातमादायैकान्तमपक्रामेत्, अपक्रम्य च तदाहारजातं परिष्ठापयेत् त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति अहे झाम थंडिलंसि वेत्ति अथ आनन्तर्यार्थे | वाशब्द उत्तरापेक्षया विकल्पार्थः झामे ति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो- लोहादिमलस्तद्राशौ वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति- अन्यतरराशौ वा तथाप्रकारे पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य / प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य 2 रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका Oद्वाचत्वारिंशदेषणासंकटे गहने जीव! नैव छलितः / इदानीं यथा न छल्यसे भुञ्जन् रागद्वेषाभ्यां (तथा प्रवर्तस्व)॥१॥ रागेण साङ्गारं द्वेषेण सधूमकं विजानीहि। रागद्वेषविमुक्तो भुञ्जीत वा निर्जराप्रेक्षी // 2 // H
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy