________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 550 // क्रमेणपरिपाट्याऽग्रं क्रमाग्रम्, एतद् द्रव्यादि चतुर्विधम्, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं व्यणुकाद् त्र्यणुकमित्येवमादि। श्रुतस्कन्धः२ क्षेत्राग्रं- एकप्रदेशावगाढाद् द्विप्रदेशावगाढम्, द्विप्रदेशावगाढात्त्रिप्रदेशावगाढमित्यादि / कालाग्रमेकसमयस्थितिकाद् चूलिका-१ प्रथममध्ययनं द्विसमयस्थितिकं द्विसमयस्थितिकात्त्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुणकृष्णात्रिगुण पिण्डैषणा, कृष्णमित्यादि, गणनाग्रं तु सङ्ख्याधर्मस्थानात्स्थानम्, दशगुणमित्यर्थः, तद्यथा- एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु. प्रथमोद्देशक: सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रम्, यथा ताम्रोपस्करस्य सञ्चितस्योपरि शङ्कः, भावागंतु त्रिविधं- प्रधानाग्रं 1 प्रभूतानं नियुक्ति: 286 द्रव्याग्रनिक्षेपाः 2 उपकाराग्रं 3 च, तत्र प्रधानाग्रं सचित्तादि त्रिधा, सचित्तमपि द्विपदादिभेदात्रिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः अचित्तं वैडूर्यादि मिश्रं तीर्थकर एवालङ्कत इति, प्रभूताग्रं त्वापेक्षिकम, तद्यथा जीवा पोग्गल समया दव पएसा य पज्जवा चेव। थोवाऽणताणता विसेसमहिया दुवे णता॥१॥अत्र च यथोत्तरमग्रम्, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य द्वे चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार इति // 285 // आह च नियुक्तिकारः नि०- उवयारेण उपगयं आयारस्सेव उवरिमाइंतु।रुक्खस्स य पव्वयस्स य जह अग्गाई तहेयाई॥ 286 // उपकाराग्रेणात्र प्रकृतं-अधिकार: यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति / शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तं उच्चारिअस्स सरिसं जल __0 जीवा: पुद्गला: समयाः (त्रैकालिकाः) द्रव्याणि प्रदेशाश्च पर्यवाश्चैव / स्तोकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ता (अनन्तगुणाः अनन्तगुणाः) ॥१॥गाथायां पज्जवा इत्यनेनोपात्तम् / ॐ उच्चारितस्य सदृशं.