SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 549 / / आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् / आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेष श्रुतस्कन्ध:२ मशेषितक्रियः // 3 // चूलिका-१ प्रथममध्ययनं उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धःउक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइ य सपंचचूलो बहुबहुअयरो प्रथमोद्देशकः पयग्गेणं // 1 // तत्राद्ये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः नियुक्ति: 285 द्रव्याग्रनिक्षेपाः अभिहितोऽपि सोपतोऽतोऽनभिहितार्थाभिधानाय सङ्केपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतस्रश्चूडा उक्तानुक्तार्थसङ्गाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनाहत्य द्रव्याग्रनिक्षेपार्थं नियुक्तिकृदाह- .. नि०-दव्वोगाहण आएस काल कम गणणसंचए भावें / अग्गंभावे उपहाणबहुय उवगार ओतिविहं॥२८५॥ तत्र द्रव्याग्रं द्विधा- आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्तादेर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रम्, तद्यथा- मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रं आदिश्यत इत्यादेश:- व्यापारनियोजना, अग्रशब्दोऽत्र परि-2 माणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रम्, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रं- अधिकमासकः यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा, क्रमाग्रं तु नवब्रह्मचर्यमयोऽष्टादशपदसहस्रको वेदः / भवति च सपञ्चचूलो बहुबहुतरः पदाग्रेण // 1 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy