________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ | // 720 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, तृतीया सप्तकका उच्चार प्रश्रवणम्, सूत्रम् 389 उच्चारप्रश्रवणविधि: व तह० थं० नोऊ०॥१०॥से भि० से जंजाणे० नवियासु वा मट्टियखाणिआसु नवियासुगोप्पहेलियासु वा गवाणीसुवाखाणीसु वा अन्नयरंसि वा तह० थं० नो उ०॥११॥से जंजा० डागवच्चंसि वा सागव० मूलग० हत्थंकरवच्चंसि वा अन्नयरंसिवा तह० नो उ० वो०॥१२॥से भि० जं असणवणंसि वा सणव० धायइव० केयइवणंसिवा अंबव० असोगव० नागव० पुन्नागव० चुल्लगव० अन्नयरेसुतह० पत्तोवेएसु वा पुप्फोवेएसुवा फलोवेएसुवा बीओवेएसुवा हरिओवेएसुवा नो उ० वो० // 13 / / सूत्रम् 389 // स भिक्षुर्यत्पुनरेवभूतं स्थण्डिलं जानीयात्- तद्यथा यत्र गृहपत्यादय: कन्दबीजादिपरिक्षेपणादिक्रिया: कालत्रयवर्तिनी: कुर्युस्तहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति // तथा- यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति वप्स्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति // किञ्च- स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- आमोकानि कचवरपुजाः घसा: बृहत्यो भूमिराजयः भिलुगाणि श्लक्ष्णभूमिराजयः विज्जलं पिच्छलं स्थाणुः प्रतीत: कडवाणि इक्षुजो नलिकादिदण्डकः प्रग": महागतः दरी प्रतीता प्रदुर्गाणि कुड्यप्राकारादीनि, एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोच्चारादि कुर्यादिति // किञ्च-स भिक्षुर्यत्पुनरेवभूतं स्थण्डिलं जानीयात्, तद्यथा- मानुषरन्धनानि चुल्ल्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति // तथा-स भिक्षुः वेहानसस्थानानि मानुषोल्लम्बनस्थानानि गृध्रपृष्ठस्थानानि यत्र मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यासते तरुपतनस्थानानि यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्चपर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति // अपि च- आरामदेवकुलादौ नोच्चारादि O घासाः (मु०)। 0 इक्षुयोन्नल० (मु०)। // 720 //