SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 712 // श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, प्रथमा सप्तकका स्थानम्, नियुक्ति: 323 सूत्रम् 386 स्थाननिक्षेपाः ॥अथ सप्तसप्तिकाख्या द्वितीया चूला॥ ॥प्रथमा सप्तैकका स्थानाख्या। उक्तंसप्तममध्ययनम्, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीयासमारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह__ नि०- सत्तिक्कगाणि इक्कस्सरगाणि पुव्व भणियं तहिं ठाणं / उद्धट्ठाणे पगयं निसीहियाए तहिं छक्कं // 323 // सप्तैककान्येकसराणी ति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि पूर्व प्रथमंस्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयंकिंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकार:- ऊर्द्धस्थाने प्रकृतं प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति // 323 // साम्प्रतं सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खू वा० अभिकंखेजा ठाणं ठाइत्तए, से अणुपविसिज्जा गामं वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव समक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस० लाभे संते नो प०, एवं सिज्जागमेण नेयत्वं जाव उदयपसूयाइंति // 1 // इच्चेयाई आयतणाई उवाइकम्म 2 अह भिक्खू इच्छिज्जा चउहि पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा-अचित्तं खलु उवसज्जिज्जा अवलंबिजा काएण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा। अहावरा दुच्चा पडिमा-अचित्तं खलु // 712 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy