________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 705 // श्रुतस्कन्धः 2 चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, प्रथमोद्देशकः सूत्रम् 378-379 अवग्रहयाचनादिविधिः स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवं अपशुः द्विपदचतुष्पदादिरहितः, यत एवमत: परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति- यथा सर्वं भदन्त! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत्, नाप्यपरं गृह्णन्तं समनुजानीयात्, यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथाछत्रकमिति छद अपवारणे छादयतीति छत्रं- वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कोङ्कणदेशादावतिवृष्टिसम्भवाच्छत्रकमपि गृह्णीयाद्यावच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः। तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति // 378 // किञ्च से भि० आगंतारेसुवा 4 अणुवीइ उग्गहं जाइज्जा, जे तत्थ ईसर जे तत्थ समहिट्ठए ते उग्गहं अणुन्नविना-कामं खलु आउसो०! अहालंदं अहापरिन्नायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एत्ताव ता उग्गहं उग्गिण्हिस्सामो, तेण परं विहरिस्सामो१॥से किं पुण तत्थोग्गहंसि एवोग्गहियंसिजे तत्थ साहम्मिया संभोइया समणुना उवागच्छिज्जाजे तेण सयमेसित्तए असणे वा 4 तेण ते साहम्मिया 3 उवनिमंतिज्जा, नो चेवणं परपडियाए ओगिज्झिय 2 उवनि०२॥सूत्रम् 379 // स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च- पर्यालोच्य यतिविहारयोग्यं क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च याच्यस्तं दर्शयति-यस्तत्र ईश्वरः गृहस्वामी तथा यस्तत्र समधिष्ठाता गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहं अनुज्ञापयेत् | याचेत, कथमिति दर्शयति- काम मिति तवेच्छया खलु इति वाक्यालङ्कारे आयुष्मन्! गृहपते! अहालंद मिति यावन्मात्रं // 705 //