________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 704 // श्रुतस्कन्ध:२ चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, प्रथमोद्देशकः नियुक्तिः 321-322 सूत्रम् 378 अवग्रहनिक्षेपाः नि०- मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ। इंदिय नोइंदिय अत्थवंजणे उग्गहो दसहा // 321 // भावावग्रहो द्वेधा, तद्यथा- मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा- अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थावग्रह इन्द्रियनोइन्द्रिय भेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति // 321 // ग्रहणावग्रहार्थमाह नि०- गहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो। कह पाडिहारियाऽपाडिहारिए होइ? जइयत्वं // 322 // अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति कथं केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधो|ऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥३२२॥गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं__समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते! अदिन्नादाणं पच्चक्खामि, से अणुपविसित्ता गामंवा जाव रायहाणिं वा नेव सयं अदिन्नं गिहिज्जा नेवऽन्नेहिं अदिन्नं गिण्हाविजा अदिन्नं गिण्हंतेवि अन्नेन समणुजाणिज्जा॥१॥जेहिवि सद्धिं संपव्वइए तेसिंपिजाइंछत्तगंवा जावचम्मछेयणगंवा तेसिंपुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय 2 अपमज्जिय 2 नो उग्गिण्हिज्जा वा परिगिण्हिज्ज वा, तेसिं पुवामेव उग्गहं जाइजा अणुन्नविय पडिलेहिय पमजिय तओ सं० उग्गिण्हिज्ज वा प०२।। सूत्रम् 378 // श्राम्यतीति श्रमणः- तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति- अनगारः अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा अकिञ्चनः न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थः, तथा अपुत्रः // 704 //