________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 703 // श्रुतस्कन्धः२ चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, प्रथमोद्देशकः नियुक्तिः |319-320 अवग्रहनिक्षेपाः ॥अथ सप्तममध्ययनं अवग्रहप्रतिमाख्यम् // ॥प्रथमोद्देशकः॥ उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्ध:-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयंयथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनाहत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आह___ नि०-दव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धा उ। देविंद 1 रायउग्गह 2 गिहवइ 3 सागरिय 4 साहम्मी // 319 // द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः 1, राज्ञश्चक्रवर्त्यादेर्भरतादिक्षेत्रं 2, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः 3, तथा सागारिकस्य- शय्यातरस्य घनशालादिकं 4, साधर्मिका:- साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः। सपादं योजनमिति 5, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति // 319 // साम्प्रतं द्रव्यावग्रहप्रतिपादनायाह नि०-दव्वुग्गहो उतिविहो सचित्ताचित्तमीसओचेव। खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ / / 320 // द्रव्यावग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति,कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाविधेति // 320 / / भावावग्रहप्रतिपादनार्थमाह // 70