________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 686 // वस्त्रग्रहणविधि: ॥अथ पञ्चममध्ययनं वस्त्रैषणाख्यम्॥ श्रुतस्कन्धः२ ॥प्रथमोद्देशकः॥ चूलिका-१ पञ्चममध्ययन चतुर्थाध्ययनान्तरं पञ्चममारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणा वस्त्रैषणा, समितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, प्रथमोद्देश नियुक्तिः३१८ तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आह सूत्रम् 364 नि०- पढमे गहणं बीए धरणं पगयं तु दव्ववत्थेणं / एमेव होइ पायं भावे पायं तु गुणधारी // 318 // प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति // नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापिनामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरत्नादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्त्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकार:- पगयं तु दव्ववत्थेणं ति / वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चार्द्धनाह- एवमेव इति वस्त्रवत्पात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नम्, भावपात्रं साधुरेव गुणधारीति // 318 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से भि० अभिकंखिज्जा वत्थं एसित्तए, से जंपुण वत्थं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पत्तयं वाखोमियं वा तूलकडं वा, तहप्पगारंवत्थं वाजे निग्गंथे तरुणे जुगवंबलवं अप्पायंके थिरसंघयणे से एगंवत्थं धारिजा नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओ धारिजा, एगंदुहत्थवित्थारं दो तिहत्थवित्थाराओ एगंचउहत्थवित्थारं, तहप्पगारेहिं वत्थेहिं असंधिज्जमाणेहिं, // 686 //