________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ || 675 // परुषं वदन्ति अजानाना वा, सर्वं चैतत्क्रोधादिवचनं सहावद्येन-पापेन गर्केण वा वर्त्तत इति सावधं तद्वर्जयेत् विवेकमादाय, श्रुतस्कन्धः 2 विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा चूलिका-१ ध्रुवमेतत् निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति / तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं चतुर्थमध्ययनं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुज्महे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा ध्रियते प्रथमोद्देशकः तदर्थं किञ्चित् नैवासौ तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम्, वचनविभक्तिः सूत्रम् 355 अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिर्नो वा समागत: तथाऽऽगच्छति न वा समागच्छति एवं भाषणविधिः समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यम्, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगःसाधोरयमुपदेशो, यथा- अनुविचिन्त्य विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने / सति निष्ठाभाषी सावधारणभाषी सन् समित्या भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत / यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां दर्शयति- तद्यथे त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः 1, द्विवचनं वृक्षौ 2, बहुवचनं वृक्षा इति 3, स्त्रीवचनं वीणा कन्या इत्यादि 4, पुंवचनं घटः पट इत्यादि 5, नपुंसकवचनं पीठं देवकुलमित्यादि 6, अध्यात्मवचनं, आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितं 7, उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री 8, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति 9, उपनीतापनीतवचनं कश्चिद् गुणः // 675 // प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वृत्तेति 10, अपनीतोपनीतवचनं अरूपवती स्त्री किन्तु सद्वृत्तेति 11, अतीतवचनं कृतवान् 12 वर्तमानवचनं करोति 13, अनागतवचनं करिष्यति 14, प्रत्यक्षवचनं एष देवदत्त: 15, परोक्षवचनं स